‹ ›
।।श्रीः।।।।प्रातःस्मरणस्तोत्रम्।।प्रातः स्मरामि हृदि संस्फुरदात्मतत्त्वं सच्चित्सुखं परमहंसगतिं तुरीयम्।यस्तु प्रजागरसुषुप्तमवैति नित्यं तद्ब्रह्म निष्कलमहं न च भूतसङ्घः।।1।।
प्रातर्भजामि मनसां वचसामगम्यं वाचो विभान्ति निखिला यदनुग्रहेण।यन्नेति नेति वचनैर्निगमा अवोचं स्तं देवदेवमजमच्युतमाहुरग्र्यम्।।2।।
प्रातर्नमामि तमसः परमर्कवर्णं पूर्णं सनातनपदं पुरुषोत्तमाख्यम्।यस्मिन्निदं जगदशेषमशेषमूर्तौ रज्ज्वां भुजंगम इव प्रतिभासितं वै।।3।।
श्लोकत्रयमिदं पुण्यं लोकत्रयविभूषणम्।प्रातःकाले पठेद्यस्तु स गच्छेत्परमं पदम्।।4।।इति श्रीमत्परमहंसपरिव्राजकाचार्यस्यश्रीगोविन्दभगवत्पूज्यपादशिष्यस्यश्रीमच्छंकरभगवतः कृतौप्रातःस्मरणस्तोत्रं संपूर्णम्।।