Comprehensive Texts
।।श्रीः।। |
अखण्डं सच्चिदानन्दमवाङ्मनसगोचरम्। |
यदालम्बो दरं हन्ति सतां प्रत्यूहसंभवम्। |
वेदान्तशास्त्रसिद्धान्तसारसंग्रह उच्यते। |
अस्य शास्त्रानुसारित्वादनुबन्धचतुष्टयम्। |
अधिकारी च विषयः संबन्धश्च प्रयोजनम्। |
चतुर्भिः साधनैः सम्यक्संपन्नो युक्तिदक्षिणः। |
विषयः शुद्धचैतन्यं जीवब्रह्मैक्यलक्षणम्। |
एतदैक्यप्रमेयस्य प्रमाणस्यापि च श्रुतेः। |
ब्रह्मात्मैकत्वविज्ञानं सन्तः प्राहुः प्रयोजनम्। |
प्रयोजनं संप्रवृत्तेः कारणं फललक्षणम्। |
साधनचतुष्टयसंपत्तिर्यस्यास्ति धीमतः पुंसः। |
चत्वारि साधनान्यत्र वदन्ति परमर्षयः। |
आद्यं नित्यानित्यवस्तुविवेकः साधनं मतम्। |
शमादिषट्कसंपत्तिस्तृतीयं साधनम् मतम्। |
ब्रह्मैव नित्यमन्यत्तु ह्यनित्यमिति वेदनम्। |
मृदादिकारणं नित्यं त्रिषु कालेषु दर्शनात्। |
तथैवैतज्जगत्सर्वमनित्यं ब्रह्मकार्यतः। |
सर्गं वक्त्यस्य तस्माद्वा एतस्मादित्यपि श्रुतिः। |
सर्वस्यानित्यत्वे सावयवत्वेन सर्वतःसिद्धे। |
अनित्यत्वं च नित्यत्वमेवं यच्छ्रुतियुक्तिभिः। |
ऐहिकामुष्मिकार्थेषु ह्यनित्यत्वेन निश्चयात्। |
नित्यानित्यपदार्थविवेकात्पुरुषस्य जायते सद्यः। |
काकस्य विष्ठावदसह्यबुद्धि |
प्रदृश्यते वस्तुनि यत्र दोषो |
अत्रापि चान्यत्र च विद्यमान |
कुक्षौ स्वमातुर्मलमूत्रमध्ये |
स्वकीयविण्मूत्रविसर्जनं त |
स्वीयैः परैस्ताडनमज्ञभाव |
मदोद्धतिं मान्यतिरस्कृतिं च |
विरूपतां सर्वजनादवज्ञां |
पित्तज्वरार्शःक्षयगुल्मशूल |
यमावलोकोदितभीतिकम्प |
अङ्गारनद्यां तपने च कुम्भी |
पुण्यक्षये पुण्यकृतो नभःस्थै |
वाय्वर्कवह्नीन्द्रमुखान्सुरेन्द्रा |
श्रुत्या निरुक्तं सुखतारतम्यं |
सालोक्यसामीप्यसरूपतादि |
यत्रास्ति लोके गतितारतम्यं |
को नाम लोके पुरुषो विवेकी |
सुखं किमस्त्यत्र विचार्यमाणे |
अविचारितरमणीयं |
गतेऽपि तोये सुषिरं कुलीरो |
कोशक्रिमिस्तन्तुभिरात्मदेह |
यथा तथा पुत्रकलत्रमित्र |
कारागृहस्यास्य च को विशेषः |
गृहस्पृहा पादनिबद्धश्रृङ्खला |
आशापाशशतेन पाशितपदो नोत्थातुमेव क्षमः |
कामान्धकारेण निरुद्धदृष्टि |
श्लेष्मोद्गारि मुखं स्रवन्मलवती नासाश्रुमल्लोचनं |
दूरादवेक्ष्याग्निशिखां पतङ्गो |
कामेन कान्तां परिगृह्य तद्व |
काम एव यमः साक्षात्कान्ता वैतरणी नदी। |
यमालये वापि गृहेऽपि नो नृणां |
यमस्य कामस्य च तारतम्यं |
यमोऽसतामेव करोत्यनर्थं |
विश्वस्य वृद्धिं स्वयमेव कांक्ष |
कामो नाम महाञ्जगद्भ्रमयिता स्थित्वान्तरङ्गे स्वयं |
अतोऽन्तरङ्गस्थितकामवेगा |
तेनैव सर्वजन्तूनां कामना बलवत्तरा। |
अवेक्ष्य विषये दोषं बुद्धियुक्तो विचक्षणः। |
कामस्य विजयोपायं सूक्ष्मं वक्ष्याम्यहं सताम्। |
श्रुते दृष्टेऽपि वा भोग्ये यस्मिन्कस्मिंश्च वस्तुनि। |
कामस्य बीजं संकल्पः संकल्पादेव जायते। |
न कोऽपि सम्यक्त्वधिया विनैव |
भोग्ये नरः कामजयेच्छुरेतां |
संकल्पानुदये हेतुर्यथाभूतार्थदर्शनम्। |
रत्ने यदि शिलाबुद्धिर्जायते वा भयं ततः। |
यथार्थदर्शनं वस्तुन्यनर्थस्यापि चिन्तनम्। |
धनं भयनिबन्धनं सततदुःखसंवर्धनं |
राज्ञो भयं चोरभयं प्रमादा |
आर्जने रक्षणे दाने व्यये वापि च वस्तुतः। |
सतामपि पदार्थस्य लाभाल्लोभः प्रवर्धते। |
दहत्यलाभे निःस्वत्वं लाभे लोभो दहत्यमुम्। |
भोगेन मत्तता जन्तोर्दानेन पुनरुद्भवः। |
धनेन मदवृद्धिः स्यान्मदेन स्मृतिनाशनम्। |
सुखयति धनमेवेत्यन्तराशापिशाच्या |
संपन्नोऽन्धवदेव किंचिदपरं नो वीक्षते चक्षुषा |
लोभः क्रोधश्च डम्भश्च मदो मत्सर एव च। |
अलाभाद्द्विगुणं दुःखं वित्तस्य व्ययसंभवे। |
नित्याहितेन वित्तेन |
कान्तारे विजने वने जनपदे सेतौ निरीतौ च वा |
तस्मादनर्थस्य निदानमर्थः |
श्रद्धाभक्तिमतीं सतीं गुणवतीं पुत्राञ्श्रुतान्समंता |
सुखमिति मलराशौ ये रमन्तेऽत्र गेहे |
येषामाशा निराशा स्या |
सत्कर्मक्षयपाप्मनां श्रुतिमतां सिद्धात्मनां धीमतां |
संसारमृत्योर्बलिनः प्रवेष्टुं |
मुक्तिश्रीनगरस्य दुर्जयतरं द्वारं यदस्त्यादिमं |
आरूढस्य विवेकाश्वं तीव्रवैराग्यखङ्गिनः। |
विवेकजां तीव्रविरक्तिमेव मुक्तेर्निदानं निगदन्ति सन्तः। |
पुमानजातनिर्वेदो देहबन्धं जिहासितुम्। |
वैराग्यरहिता एव यमालय इवालये। |
शमो दमस्तितिक्षोपरतिः श्रद्धा ततः परम्। |
एकवृत्त्यैव मनसः स्वलक्ष्ये नियतस्थितिः। |
उत्तमो मध्यमश्चैव जघन्य इति च त्रिधा। |
स्वविकारं परित्यज्य वस्तुमात्रतया स्थितिः। |
प्रत्यक्प्रत्ययसंतानप्रवाहकरणं धियः। |
विषयव्यापृतिं त्यक्त्वा श्रवणैकमनस्थितिः। |
प्राच्योदीच्याङ्गसद्भावे शमः सिध्यति नान्यथा। |
कामः क्रोधश्च लोभश्च मदो मोहश्च मत्सरः। |
शब्दादिविषयेभ्यो यो विषवन्न निवर्तते। |
येन नाराधितो देवो यस्य नो गुर्वनुग्रहः। |
मनःप्रसादसिद्ध्यर्थं साधनं श्रूयतां बुधैः। |
ब्रह्मचर्यमहिंसा च दया भूतेष्ववक्रता। |
सत्यं निर्ममता स्थैर्यमभिमानविसर्जनम्। |
ज्ञानशास्त्रैकपरता समता सुखदुःखयोः। |
यस्यैतद्विद्यते सर्वं तस्य चित्तं प्रसीदति। |
स्मरणं दर्शनं स्त्रीणां गुणकर्मानुकीर्तनम्। |
सहवासश्च संसर्गोऽष्टधा मैथुनं विदुः। |
अहिंसा वाङ्मनःकायैः प्राणिमात्राप्रपीडनम्। |
अनुकम्पा दया सैव प्रोक्ता वेदान्तवेदिभिः। |
ब्रह्मादिस्थावरान्तेषु वैराग्यं विषयेष्वनु। |
बाह्यमाभ्यन्तरं चेति द्विविधं शौचमुच्यते। |
अज्ञानदूरीकरणं मानसं शौचमान्तरम्। |
ध्यानपूजादिकं लोके द्रष्टर्येव करोति यः। |
पुंसस्तथानाचरणमदम्भित्वं विदुर्बुधाः। |
सत्यमित्युच्यते ब्रह्म सत्यमित्यभिभाषणम्। |
निर्ममत्वं स्मृतं येन कैवल्यं लभते बुधः। |
तदेकवृत्त्या तत्स्थैर्यं नैश्चल्यं न तु वर्ष्मणः। |
संजाताहंकृतित्यागस्त्वभिमानविसर्जनम्। |
स्वात्मैकचिन्तनं यत्तदीश्वरध्यानमीरितम्। |
यद्यदुक्तं ज्ञानशास्त्रे श्रवणादिकमेषु यः। |
धनकान्ताज्वरादीनां प्राप्तकाले सुखादिभिः। |
श्रेष्ठं पूज्यं विदित्वा मां मानयन्तु जना भुवि। |
सच्चिन्तनस्य संबाधो विघ्नोऽयं निर्जने ततः। |
संसारबन्धनिर्मुक्तिः कदा झटिति मे भवेत्। |
ब्रह्मचर्यादिभिर्धर्मैर्बुद्धेर्दोषनिवृत्तये। |
तत्तद्वृत्तिनिरोधेन बाह्येन्द्रियविनिग्रहः। |
इन्द्रियेष्विन्द्रियार्थेषु प्रवृत्तेषु यदृच्छया। |
इन्द्रियेषु निरुद्धेषु त्यक्त्वा वेगं मनः स्वयम्। |
प्रसन्ने सति चित्तेऽस्य |
तेन स्वदौष्ट्यं परिमुच्य चित्तं |
दमं विना साधु मनःप्रसाद |
प्राणायामाद्भवति मनसो निश्चलत्वं प्रसादो |
सर्वेन्द्रियाणां गतिनिग्रहेण |
आध्यात्मिकादि यद्दुःखं प्राप्तं प्रारब्धवेगतः। |
रक्षा तितिक्षासदृशी मुमुक्षो |
क्षमावतामेव हि योगसिद्धिः |
तितिक्षया तपो दानं यज्ञस्तीर्थं व्रतं श्रुतम्। |
ब्रह्मचर्यमहिंसा च साधूनामप्यगर्हणम्। |
साधनेष्वपि सर्वेषु तितिक्षोत्तमसाधनम्। |
तितिक्षोरेव विघ्नेभ्यस्त्वनिवर्तितचेतसः। |
तस्मान्मुमुक्षोरधिका तितिक्षा |
तत्तत्कालसमागतामयततेः शान्त्यै प्रवृत्तो यदि |
योगमभ्यस्यतो भिक्षोर्योगाच्चलितचेतसः। |
न तु कृत्वैव संन्यासं तूष्णीमेव मृतस्य हि। |
न च संन्यसनादेव सिद्धिं समधिगच्छति। |
तस्मात्तितिक्षया सोढ्वा तत्तद्दुःखमुपागतम्। |
प्रयोजनं तितिक्षायाः साधितायाः प्रयत्नतः। |
साधनत्वेन दृष्टानां सर्वेषामपि कर्मणाम्। |
उपरमयति कर्माणीत्युपरतिशब्देन कथ्यते न्यासः। |
कर्मणा साध्यमानस्यानित्यत्वं श्रूयते यतः। |
उत्पाद्यमाप्यं संस्कार्यं विकार्यं परिगण्यते। |
नैतदन्यतरं ब्रह्म कदा भवितुमर्हति। |
न चास्य कश्चिज्जनितेत्यागमेन निषिध्यते। |
आप्त्राप्ययोस्तु भेदश्चेदाप्त्रा चाप्यमवाप्यते। |
मलिनस्यैव संस्कारो दर्पणादेरिहेष्यते। |
केन दुष्टेन युज्येत वस्तु निर्मलमक्रियम्। |
निर्गुणस्य गुणाधानमपि नैवोपपद्यते। |
सावयवस्य क्षीरादेर्वस्तुनः परिणामिनः। |
निष्कलं निष्क्रियं शान्तं निरवद्यं निरञ्जनम्। |
तस्मान्न कर्मसाध्यत्वं ब्रह्मणोऽस्ति कुतश्चन। |
देहादिः क्षीयते लोको यथैवं कर्मणा चितः। |
कृतकत्वमनित्यत्वे हेतुर्जागर्ति सर्वदा। |
जगद्धेतोस्तु नित्यत्वं सर्वेषामपि संमतम्। |
ऐतदात्म्यमिदं सर्वं तत्सत्यमिति च श्रुतिः। |
न कर्मणा न प्रजया धनेनेति रवयं श्रुतिः। |
प्रत्यग्ब्रह्मविचारपूर्वमुभयोरेकत्वबोधाद्विना |
ज्ञानादेव तु कैवल्यमिति श्रुत्या निगद्यते। |
विवेकिनो विरक्तस्य ब्रह्मनित्यत्ववेदिनः। |
तस्मादनित्ये स्वर्गादौ साधनत्वेन चोदितम्। |
मुमुक्षुणा परित्याज्यं ब्रह्मभावमभीप्सुना। |
हस्तवद्वयमेतस्य स्वकार्यं साधयिष्यति। |
तथा श्रवणजो बोधः पुंसो विहितकर्मणा। |
मोक्षस्य साधनमिति वदन्ति ब्रह्मवादिनः। |
इति शङ्का न कर्तव्या मूढवत्पण्डितोत्तमैः। |
वैलक्षण्यं च सामग्र्योश्चोभयत्राधिकारिणोः। |
अर्थी समर्थ इत्यादि लक्षणं कर्मिणो मतम्। |
मोक्षाधिकारी संन्यासी गृहस्थः किल कर्मणि। |
नैवान्यसाधनापेक्षा शुश्रूषोस्तु गुरुं विना। |
अहंकारस्य विच्छित्तिः श्रवणेन प्रतिक्षणम्। |
इत्यादिवैपरीत्यं तत्साधने चाधिकारिणोः। |
सामग्र्योश्चोभयोस्तद्वदुभयत्राधिकारिणोः। |
कथमन्योन्यसापेक्षा कथं वापि समुच्चयः। |
सहयोगो न घटते तथैव ज्ञानकर्मणोः। |
कोटीन्धनाद्रिज्वलितोऽपि वह्निरर्कस्य नार्हत्युपकर्तुमीषत्। |
एककर्त्राश्रयौ हस्तौ कर्मण्यधिकृतावुभौ। |
कर्त्रा कर्तुमकर्तुं वाप्यन्यथा कर्म शक्यते। |
यथा वस्तु तथा ज्ञानं प्रमाणेन विजायते। |
ज्ञानस्य वस्तुतन्त्रत्वे संशयाद्युदयः कथम्। |
प्रमाणासौष्ठववृतं संशयादि न वास्तवम्। |
वस्तु तावत्परं ब्रह्म नित्यं सत्यं ध्रुवं विभु। |
रूपज्ञानं यथा सम्यग्दृष्टौ सत्यां भवेत्तथा। |
न कर्म यत्किंचिदपेक्षते हि रूपोपलब्धौ पुरुषस्य चक्षुः। |
कर्तृतन्त्रं भवेत्कर्म कर्मतन्त्रं शुभाशुभम्। |
विद्यां चाविद्यां चेति सहोक्तिरियमुपकृता सद्भिः। |
नित्यानित्यपदार्थबोधरहितो यश्चोभयत्र स्रगा |
मोक्षेच्छया यदहरेव विरज्यतेऽसौ |
स्वापरोक्षस्य वेदादेः साधनत्वं निषेधति। |
प्रवृत्तिश्च निवृत्तिश्च द्वे एते श्रुतिगोचरे। |
यन्न स्वबन्धोऽभिमतो मूढस्यापि क्वचित्ततः। |
न ज्ञानकर्मणोर्यस्मात्सहयोगस्तु युज्यते। |
इष्टसाधनताबुद्ध्या गृहीतस्यापि वस्तुनः। |
उपरतिशब्दार्थो ह्युपरमणं पूर्वदृष्टवृत्तिभ्यः। |
वृत्तेर्दृश्यपरित्यागो मुख्यार्थ इति कथ्यते। |
पुंसः प्रधानसिद्ध्यर्थमङ्गस्याश्रयणं ध्रुवम्। |
संन्यसेत्सुविरक्तः सन्निहामुत्रार्थतः सुखात्। |
संन्यस्य तु यतिः कुर्यान्न पूर्वविषयस्मृतिम्। |
गुरुवेदान्तवाक्येषु बुद्धिर्या निश्चयात्मिका। |
श्रद्धावतामेव सतां पुमर्थः |
श्रद्धाविहीनस्य तु न प्रवृत्तिः |
दैवे च वेदे च गुरौ च मन्त्रे |
अस्तीत्येवोपलब्धव्यं वस्तुसद्भावनिश्चयात्। |
तस्माच्छ्रद्धा सुसंपाद्या गुरुवेदान्तवाक्ययोः। |
यथार्थवादिता पुंसां श्रद्धाजननकारणम्। |
मुक्तस्येश्वररूपत्वाद्गुरोर्वागपि तादृशी। |
श्रुत्युक्तार्थावगाहाय विदुषा ज्ञेयवस्तुनि। |
चित्तस्य साध्यैकपरत्वमेव |
चित्तं च दृष्टिं करणं तथान्य |
सिद्धेश्चित्तसमाधानमसाधारणकारणम्। |
अत्यन्ततीव्रवैराग्यं फललिप्सा महत्तरा। |
बहिरङ्गं श्रुतिः प्राह ब्रह्मचर्यादिमुक्तये। |
अन्तरङ्गं हि बलवद्बहिरङ्गाद्यतस्ततः। |
अन्तरङ्गविहीनस्य कृतश्रवणकोटयः। |
ब्रह्मात्मैकत्वविज्ञानाद्यद्विद्वान्मोक्तुमिच्छति। |
साधनानां तु सर्वेषां मुमुक्षा मूलकारणम्। |
तीव्रमध्यममन्दातिमन्दभेदाश्चतुर्विधाः। |
तापैस्त्रिभिर्नित्यमनेकरूपैः संतप्यमानो क्षुभितान्तरात्मा। |
तापत्रयं तीव्रमवेक्ष्य वस्तु |
मोक्षस्य कालोऽस्ति किमद्य मे त्वरा |
मार्गे प्रयातुर्मणिलाभवन्मे |
जन्मानेकसहस्रेषु तपसाराधितेश्वरः। |
शास्त्रविद्गुणदोषज्ञो भोग्यमात्रे विनिस्पृहः। |
निष्टप्तमग्निना पात्रमुद्वास्य त्वरया यथा। |
स एव सद्यस्तरति संसृतिं गुर्वनुग्रहात्। |
जन्मान्तरे मध्यमस्तु तदन्यस्तु युगान्तरे। |
नृजन्म जन्तोरतिदुर्लभं विदु |
पुत्रमित्रकलत्रादिसुखं जन्मनि जन्मनि। |
लब्ध्वा सुदुर्लभतरं नरजन्म जन्तु |
खादते मोदते नित्यं शुनकः सूकरः खरः। |
यावन्नाश्रयते रोगो यावन्नाक्रमते जरा। |
तावदेव नरः स्वस्थः सारग्रहणतत्परः। |
देवर्षिपितृमर्त्यर्णबन्धमुक्तास्तु कोटिशः। |
अन्तर्बन्धेन बद्धस्य किं बहिर्बन्धमोचनैः। |
कृतिपर्यवसानैव मता तीव्रमुमुक्षुता। |
गेहादिसर्वमपहाय लघुत्वबुद्ध्या |
नित्यानित्यविवेकश्च देहक्षणिकतामतिः। |
शिरो विवेकस्त्वत्यन्तं वैराग्यं वपुरुच्यते। |
ईदृशाङ्गसमायुक्तो जिज्ञासुर्युक्तिकोविदः। |
उक्तसाधनसंपन्नो जिज्ञासुर्यतिरात्मनः। |
श्रोत्रियो ब्रह्मनिष्ठो यः प्रशान्तः समदर्शनः। |
अनपेक्षः शुचिर्दक्षः करुणामृतसागरः। |
जन्मानेकशतैः सदादरयुजा भक्त्या समाराधितो |
अविद्याहृदयग्रन्थिविमोक्षोऽपि भवेद्यतः। |
शिव एव गुरुः साक्षात् गुरुरेव शिवः स्वयम्। |
बन्धमुक्तं ब्रह्मनिष्ठं कृतकृत्यं भजेद्गुरुम्। |
शुश्रूषया सदा भक्त्या प्रणामैर्विनयोक्तिभिः। |
भगवन्करुणासिन्धो भवसिन्धोर्भवांस्तरिः। |
जन्मान्तरकृतानन्तपुण्यकर्मफलोदयः। |
संप्रीतिमक्ष्णोर्वदनप्रसाद |
हुताशनानां शशिनामिनाना |
दुष्पारे भवसागरे जनिमृतिव्याध्यादिदुःखोत्कटे |
केन वा पुण्यशेषेण तव पादाम्बुजद्वयम्। |
वदन्तमेवं तं शिष्यं दृष्ट्यैव दयया गुरुः। |
विद्वन्मृत्युभयं जहीहि भवतो नास्त्येव मृत्युः क्वचि |
निद्रागाढतमोवृतः किल जनः स्वप्ने भुजङ्गादिना |
रज्जोस्तु तत्त्वमनवेक्ष्य गृहीतसर्प |
तद्वत्त्वयाप्यात्मन उक्तमेत |
भवाननात्मनो धर्मानात्मन्यारोप्य शोचति। |
शिष्यः -- |
प्रत्यक्षेणानुभूतार्थः कथं मिथ्यात्वमर्हति। |
विद्यमानस्य मिथ्यात्वं कथं नु घटते प्रभो। |
मर्त्यस्य मम जन्मादिदुःखभाजोऽल्पजीविनः। |
क आत्मा कस्त्वनात्मा च किमु लक्षणमेतयोः। |
किमज्ञानं तदुत्पन्नभयत्यागोऽपि वा कथम्। |
सर्वमेतद्यथापूर्वं करामलकवत्स्फुटम्। |
श्रीगुरुः -- |
शिवप्रसादेन विना न सिद्धिः |
यस्य प्रसादेन विमुक्तसङ्गाः |
विवेको जन्तूनां प्रभवति जनिष्वेव बहुषु |
मर्त्यत्वसिद्धेरपि पुंस्त्वसिद्धे |
प्रश्नः समीचीनतरस्तवायं |
मर्त्यत्वं त्वयि कल्पितं भ्रमवशात्तेनैव जन्मादयः |
नाशेषलोकैरनुभूयमानः |
दिवान्धदृष्टेस्तु दिवान्धकारः |
घटोऽयमित्यत्र घटाभिधानः |
प्रादेशमात्रः परिदृश्यतेऽर्कः |
तस्मात्त्वयीदं भ्रमतः प्रतीतं |
लोकान्तरे वात्र गुहान्तरे वा |
तत्त्वमात्मस्थमज्ञात्वा मूढः शास्त्रेषु पश्यति। |
स्वमात्मानं परं मत्वा परमात्मानमन्यथा। |
विस्मृत्य वस्तुनस्तत्त्वमध्यारोप्य च वस्तुनि। |
आत्मानात्मविवेकं ते वक्ष्यामि श्रृणु सादरम्। |
इत्युक्त्वाभिमुखीकृत्य शिष्यं करुणया गुरुः। |
सम्यक्प्राबोधयत्तत्त्वं शास्त्रदृष्टेन वर्त्मना। |
वस्तुन्यवस्त्वारोपो यः सोऽध्यारोप इतीर्यते। |
वस्तु तावत्परं ब्रह्म सत्यज्ञानादिलक्षणम्। |
तत्कारणं यदज्ञानं सकार्यं सद्विलक्षणम्। |
अवस्तु तत्प्रमाणैर्यद्बाध्यते शुक्तिरौप्यवत्। |
शुक्तेर्बाधा न खल्वस्ति रजतस्य यथा तथा। |
सदसद्भ्यामनिर्वाच्यमज्ञानं त्रिगुणात्मकम्। |
मिथ्यासंबन्धतस्तत्र ब्रह्मण्याश्रित्य तिष्ठति। |
सद्भावे लिङ्गमेतस्य कार्यमेतच्चराचरम्। |
अज्ञानं प्रकृतिः शक्तिरविद्येति निगद्यते। |
सतो भिन्नमभिन्नं वा न दीपस्य प्रभा यथा। |
अत एतदनिर्वाच्यमित्येव कवयो विदुः। |
नानात्वेन प्रतीतानामज्ञानानामभेदतः। |
इयं समष्टिरुत्कृष्टा सत्त्वांशोत्कर्षतः पुरा। |
मायोपहितचैतन्यं साभासं सत्त्वबृंहितम्। |
अव्याकृतं तदव्यक्तमीश इत्यपि गीयते। |
स्वतन्त्रः सत्यसंकल्पः सत्यकामः स ईश्वरः। |
सर्वज्ञत्वेश्वरत्वादिकारणत्वान्मनीषिणः। |
आनन्दप्रचुरत्वेन साधकत्वेन कोशवत्। |
सर्वोपरमहेतुत्वात्सुषुप्तिस्थानमिष्यते। |
अज्ञानं व्यष्ट्यभिप्रायादनेकत्वेन भिद्यते। |
वनस्य व्यष्ट्यभिप्रायाद्भूरुहा इत्यनेकता। |
व्यष्टिर्मलिनसत्वैषा रजसा तमसा युता। |
चैतन्यं व्यष्ट्यवच्छिन्नं प्रत्यगात्मेति गीयते। |
अभिभूतः स एवात्मा जीव इत्यभिधीयते। |
अस्य व्यष्टिरहंकारकारणत्वेन कारणम्। |
प्राज्ञत्वमस्यैकाज्ञानभासकत्वेन संमतम्। |
स्वरूपाच्छादकत्वेनाप्यानन्दप्रचुरत्वतः। |
अस्यावस्था सुषुप्तिः स्याद्यत्रानन्दः प्रकृष्यते। |
इत्यानन्दसमुत्कर्षः प्रबुद्धेषु प्रदृश्यते। |
अभेद एव नो भेदो जात्येकत्वेन वस्तुतः। |
सत्युपाध्योरभिन्नत्वे क्व भेदस्तद्विशिष्टयोः। |
अज्ञानतदवच्छिन्नाभासयोरुभयोरपि। |
एतदेवाविविक्तं सदुपाधिभ्यां च तद्गुणैः। |
अनन्तशक्तिसंपन्नो मायोपाधिक ईश्वरः। |
अद्वितीयस्वमात्रोऽसौ निरुपादान ईश्वरः। |
निमित्तमप्युपादानं स्वयमेव भवन्प्रभुः। |
स्वप्राधान्येन जगतो निमित्तमपि कारणम्। |
यथालूता निमित्तं च स्वप्रधानतया भवेत्। |
तमःप्रधानप्रकृतिविशिष्टात्परमात्मनः। |
वायोरग्निस्तथैवाग्नेरापोऽद्भ्यः पृथिवी क्रमात्। |
आरम्भन्ते कार्यगुणान्ये कारणगुणा हि ते। |
एतेभ्यः सूक्ष्मभूतेभ्यः सूक्ष्मदेहा भवन्त्यपि। |
अपञ्चीकृतभूतेभ्यो जातं सप्तदशाङ्गकम्। |
श्रोत्रादिपञ्चकं चैव वागादीनां च पञ्चकम्। |
श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणानि पञ्च जातानि। |
आकाशादिगताः पञ्च सात्त्विकांशाः परस्परम्। |
प्रकाशकत्वादेतेषां सात्त्विकांशत्वमिष्यते। |
तदन्तःकरणं वृत्तिभेदेन स्याच्चतुर्विधम्। |
संकल्पान्मन इत्याहुर्बुद्धिरर्थस्य निश्चयात्। |
मनस्यपि च बुद्धौ च चित्तांहकारयोः क्रमात्। |
चिन्तनं च मनोधर्मः संकल्पादिर्यथा तथा। |
देहादावहमित्येव भावो दृढतरो धियः। |
तस्मादेव तु बुद्धेः कर्तृत्वं तदितरस्य करणत्वम्। |
विज्ञानमयकोशः स्यात् बुद्धिर्ज्ञानेन्द्रियैः सह। |
विज्ञानमयकोशोऽयमिति विद्वद्भिरुच्यते। |
अहं ममेत्येव सदाभिमानं |
स्ववासनाप्रेरित एव नित्यं |
नानायोनिसहस्रेषु जायमानो मुहुर्मुहुः। |
मनो मनोमयः कोशो भवेज्ज्ञानेन्द्रियैः सह। |
चिन्ताविषादहर्षाद्याः कामाद्या अस्य वृत्तयः। |
मनो ह्यमुष्य प्रवणस्य हेतु |
बन्धश्च मोक्षो मनसैव पुंसा |
रजस्तमोभ्यां मलिनं त्वशुद्ध |
रजोदोषैर्युक्तं यदि भवति विक्षेपकगुणैः |
ततो मुमुक्षुर्भवबन्धमुक्त्यै |
गर्भावासजनिप्रणाशनजराव्याध्यादिषु प्राणिनां |
यमेषु निरतो यस्तु नियमेषु च यत्नतः। |
आसुरीं संपदं त्यक्त्वा भजेद्यो दैवसंपदम्। |
परद्रव्यपरद्रोहपरनिन्दापरस्त्रियः। |
आत्मवत्सर्वभूतेषु यः समत्वेन पश्यति। |
अत्यन्तं श्रद्धया भक्त्या गुरुमीश्वरमात्मनि। |
शिष्टान्नमीशार्चनमार्यसेवां |
कट्वाम्ललवणात्युष्णतीक्ष्णरूक्षविधायिनाम्। |
श्रुत्या सत्त्वपुराणानां सेवया सत्त्ववस्तुनः। |
यस्य चित्तं निर्विषयं हृदयं यस्य शीतलम्। |
हितपरिमितभोजी नित्यमेकान्तसेवी |
चित्तप्रसादेन विनावगन्तुं |
मनःप्रसादः पुरुषस्य बन्धो |
पञ्चानामेव भूतानां रजोंशेभ्योऽभवन् क्रमात्। |
समस्तेभ्यो रजोंशेभ्यो व्योमादीनां क्रियात्मकाः। |
प्राणः प्राग्गमनेन स्यादपानोऽवाग्गमनेन च। |
अशितान्नरसादीनां समीकरणधर्मतः। |
क्रियैव दिश्यते प्रायः प्राणकर्मेन्द्रियेष्वलम्। |
राजसीं तु क्रियाशक्तिं तमःशक्तिं जडात्मिकाम्। |
एते प्राणादयः पञ्च पञ्चकर्मेन्द्रियैः सह। |
यद्यन्निष्पाद्यते कर्म पुण्यं वा पापमेव वा। |
वायुनोच्चालितो वृक्षो नानारूपेण चेष्टते। |
प्राणकर्मेन्द्रियैर्देहः प्रेर्यमाणः प्रवर्तते। |
कोशत्रयं मिलित्वैतद्वपुः स्यात्सूक्ष्ममात्मनः। |
लिङ्गमित्युच्यते स्थूलापेक्षया सूक्ष्ममिष्यते। |
समष्टिः स्यात्तरुगणः सामान्येन वनं यथा। |
हिरण्यगर्भः सूत्रात्मा प्राण इत्यपि पण्डिताः। |
हिरण्यगर्भ इत्यस्य व्यपदेशस्ततो मतः। |
नैकधीविषयत्वेन लिङ्गं व्यष्टिर्भवत्यथ। |
चैतन्यं तैजस इति निगदन्ति मनीषिणः। |
स्थूलात्सूक्ष्मतया व्यष्टिरस्य सूक्ष्मवपुर्मतम्। |
स्वप्ने जागरकालीनवासनापरिकल्पितान्। |
समष्टेरपि च व्यष्टेः सामान्येनैव पूर्ववत्। |
द्वयोरुपाध्योरेकत्वे तयोरप्यभिमानिनोः। |
एवं सूक्ष्मप्रपञ्चस्य प्रकारः शास्त्रसंमतः। |
तान्येव सूक्ष्मभूतानि व्योमादीनि परस्परम्। |
खादीनां भूतमेकैकं सममेव द्विधा द्विधा। |
चतुर्धा सुविभज्याथ तमेकैकं विनिक्षिपेत्। |
ततो व्योमादिभूतानां भागाः पञ्च भवन्ति ते। |
संयोज्य स्थूलतां यान्ति व्योमादीनि यथाक्रमम्। |
उपलक्षणमस्यापि तत्ित्रवृत्करणश्रुतिः। |
ततः प्रामाणिकं पञ्चीकरणं मन्यतां बुधैः। |
आकाशवाय्वोर्धर्मस्तु वह्न्यादावुपलभ्यते। |
अतोऽप्रामाणिकमिति न किंचिदपि चिन्त्यताम्। |
तेनोपलभ्यते शब्दः कारणस्यातिरेकतः। |
न तथा विद्यते व्याप्तिर्वह्न्यादेः खनभस्वतोः। |
कारणस्यानुरूपेण कार्यं सर्वत्र दृश्यते। |
अनेनोद्भूतगुणकं भूतं वक्ष्येऽवधारय। |
तेजः शब्दस्पर्शरूपैर्गुणवत्कारणं क्रमात्। |
एतैश्चतुर्भिर्गन्धेन सह पञ्चगुणा मही। |
त्वङ्मारुतांशकतया स्पर्शं गृह्णाति तद्गुणम्। |
अबंशकतया जिह्वा रसं गृह्णाति तद्गुणम्। |
करोति खांशकतया वाक्शब्दोच्चारणक्रियाम्। |
तेजोंशकतया पाणी वह्न्याद्यर्चनतत्परौ। |
भूम्यंशकतया पायुः कठिनं मलमुत्सृजेत्। |
जिह्वाया वरुणो दैवं घ्राणस्य त्वश्िवनावुभौ। |
पायोर्मृत्युरुपस्थस्य त्वधिदैवं प्रजापतिः। |
रुद्रस्त्वहंकृतेर्दैवं क्षेत्रज्ञश्चित्तदैवतम्। |
संमिता इन्द्रियस्थानेष्विन्द्रियाणां समन्ततः। |
शरीरकरणग्रामा प्राणाहमधिदेवताः। |
कर्मानुरूपेण गुणोदयो भवे |
करोति विज्ञानमयोऽभिमानं |
द्रष्टा श्रोता वक्ता कर्ता भोक्ता भवत्यहंकारः। |
आत्मनः साक्षिमात्रत्वं न कर्तृत्वं न भोक्तृता। |
न ह्यर्कः कुरुते कर्म न कारयति जन्तवः। |
तथैव प्रत्यगात्मापि रविवन्निष्क्रियात्मना। |
अज्ञात्वैवं परं तत्त्वं मायामोहितचेतसः। |
आत्मस्वरूपमविचार्य विमूढबुद्धि |
आत्मानात्मविवेकं स्फुटतरमग्रे निवेदयिष्यामः। |
पञ्चीकृतेभ्यः खादिभ्यो भूतेभ्यस्त्वीक्षयेशितुः। |
व्रीह्याद्योषधयः सर्वा वायुतेजोम्बुभूमयः। |
केचिन्मारुतभोजनाः खलु परे चन्द्रार्कतेजोशनाः |
जरायुजाण्डजस्वेदजोद्भिज्जाद्याश्चतुर्विधाः। |
यत्र जाता जरायुभ्यस्ते नराद्या जरायुजाः। |
स्वेदाज्जाताः स्वेदजास्ते यूका लूक्षादयोऽपि च। |
इदं स्थूलवपुर्जातं भौतिकं च चतुर्विधम्। |
एतत्समष्ट्यवच्छिन्नं चैतन्यं फलसंयुतम्। |
वैश्वानरो विश्वनरेष्वात्मत्वेनाभिमानतः। |
चतुर्विधं भूतजातं तत्तज्जातिविशेषतः। |
साभासं व्यष्ट्युपहितं तत्तादात्म्यमुपागतम्। |
विश्वोऽस्मिन्स्थूलदेहेऽत्र स्वाभिमानेन तिष्ठति। |
व्यष्टिरेषास्य विश्वस्य भवति स्थूलविग्रहः। |
देहोऽयं पितृभुक्तान्नविकाराच्छुक्लशोणितात्। |
तस्मादन्नविकारित्वेनायमन्नमयो मतः। |
आत्मनः स्थूलभोगाना |
बहिरात्मा ततः स्थूलभोगायतनमुच्यते। |
एकादशद्वारवतीह देहे |
ज्ञानेन्द्रियाणि निजदैवतचोदितानि |
यत्रोपभुङ्क्ते विषयान्स्थूलानेष महामतिः। |
एतत्समष्टिव्यष्ट्योश्चोभयोरप्यभिमानिनोः। |
स्थूलसूक्ष्मकारणाख्याः प्रपञ्चा ये निरूपिताः। |
महाप्रपञ्चावच्छिन्नं विश्वप्राज्ञादिलक्षणम्। |
यदनाद्यन्तमव्यक्तं चैतन्यमजमक्षरम्। |
तत्सर्वं खल्विदं ब्रह्मेत्यस्य वाक्यस्य पण्डितैः। |
स्थूलाद्यज्ञानपर्यन्तं कार्यकारणलक्षणम्। |
अन्तःकरणतद्वृत्तिद्रष्टृ नित्यमविक्रियम्। |
एष प्रत्यक्स्वप्रकाशो निरंशो |
नैव प्रत्यग्जायते वर्धते नो |
जन्मास्तित्वविवृद्धयः परिणतिश्चापक्षतिर्नाशनं |
अस्मिन्नात्मन्यनात्मत्वमनात्मन्यात्मतां पुनः। |
भ्रान्त्या मनुष्योऽहमहं द्विजोऽहं |
अनात्मनो जन्मजरामृतिक्षुधा |
भ्रान्त्या यत्र यदध्यासस्तत्कृतेन गुणेन वा। |
किं मरुन्मृगतृष्णाम्बुपूरेणार्द्रत्वमृच्छति। |
बालकल्पितनैल्येन व्योम किं मलिनायते। |
पुरो दृष्टे हि विषयेऽध्यस्यन्ति विषयान्तरम्। |
परत्र पूर्वदृष्टस्यावभासः स्मृतिलक्षणः। |
नानुभूतः कदाप्यात्माननुभूतस्य वस्तुनः। |
अनात्मन्यात्मताध्यासः कथमेष समागतः। |
उपाधियोग उभयोः सम एवेशजीवयोः। |
एतत्सर्वं दयादृष्ट्या करामलकवत्स्फुटम्। |
श्रीगुरुः -- |
प्रसिद्धिरात्मनोऽस्त्येव न कस्यापि च दृश्यते। |
न कस्यापि स्वसद्भावे प्रमाणमभिकाङ्क्ष्यते। |
मायाकार्यैस्तिरोभूतो नैष आत्मानुभूयते। |
पुरस्थ एव विषये वस्तुन्यध्यस्यतामिति। |
दृगाद्यविषये व्योम्नि नीलतादि यथाबुधाः। |
अनात्मन्यात्मताध्यासे न सादृश्यमपेक्षते। |
निरुपाधिभ्रमेष्वस्मिन्नैवापेक्षा प्रदृश्यते। |
तथापि किंचिद्वक्ष्यामि सादृश्यं श्रृणु तत्परः। |
बुद्धिस्तथैव सत्त्वात्मा साभासा भास्वरामला। |
आत्माभासं ततो बुद्धिर्बुद्ध्याभासं ततो मनः। |
मूढानां प्रतिबिम्बादौ बालानामिव दृश्यते। |
अनात्मन्यहमित्येव योऽयमध्यास ईरितः। |
सुप्तिमूर्छोत्थितेष्वेव दृष्टः संसारलक्षणः। |
अध्यासबाधागमनस्य कारणं |
आत्मोपाधेरविद्याया अस्ति शक्तिद्वयं महत्। |
आवृतिस्तमसः शक्तिस्तद्ध्यावरणकारणम्। |
विवेकवानप्यतियौक्तिकोऽपि |
विक्षेपनाम्नी रजसस्तु शक्तिः |
निद्रा यथा पुरुषमप्रमत्तं |
शक्त्या महत्यावरणाभिधानया |
यथा प्रसुप्तिप्रतिभासदेहे |
विक्षेपशक्त्या परिचोद्यमानः |
अध्यासदोषात्समुपागतोऽयं |
अध्यासो नाम खल्वेष वस्तुनो योऽन्यथाग्रहः। |
सर्वानर्थस्य तद्बीजं योऽन्यथाग्रह आत्मनः। |
अध्यासादेव संसारो नष्टेऽध्यासे न दृश्यते। |
बद्धं प्रवृत्तितो विद्धि मुक्तं विद्धि निवृत्तितः। |
आत्मनः सोऽयमध्यासो मिथ्याज्ञानपुरःसरः। |
उपाधियोगसाम्येऽपि जीववत्परमात्मनः। |
अस्योपाधिः शुद्धसत्त्वप्रधाना |
सर्वज्ञोऽप्रतिबद्धबोधविभवस्तेनैव देवः स्वयं |
तस्मादावृतिविक्षेपौ किंचित्कर्तुं न शक्नुतः। |
तमेव सा धीकर्मेति श्रुतिर्वक्ति महेशितुः। |
रजसस्तमसश्चैव प्राबल्यं सत्त्वहानतः। |
तेन बन्धोऽस्य जीवस्य संसारोऽपि च तत्कृतः। |
एतस्य संसृतेर्हेतुरध्यासोऽर्थविपर्ययः। |
अज्ञानस्य निवृत्तिस्तु ज्ञानेनैव न कर्मणा। |
कर्मणा जायते जन्तुः कर्मणैव प्रलीयते। |
नैतस्मात्कर्मणः कार्यमन्यदस्ति विलक्षणम्। |
यद्येन वर्धते तेन नाशस्तस्य न सिध्यति। |
नाशकत्वं तदुभयोः को नु कल्पयितुं क्षमः। |
ततोऽज्ञानस्य विच्छित्तिः कर्मणा नैव सिध्यति। |
तयोरेव विरोधित्वं युक्तं भिन्नस्वभावयोः। |
अज्ञानज्ञानयोस्तद्वदुभयोरेव दृश्यते। |
तस्मादज्ञानविच्छित्त्यै ज्ञानं संपादयेत्सुधीः। |
युक्त्यात्मानात्मनोस्तस्मात्करणीयं विवेचनम्। |
आत्मानात्मविवेकार्थं विवादोऽयं निरूप्यते। |
मूढा अश्रुतवेदान्ताः स्वयं पण्डितमानिनः। |
विवदन्ति प्रकारं तं श्रृणु वक्ष्यामि सादरम्। |
आत्मनीव स्वपुत्रेऽपि प्रबलप्रीतिदर्शनात्। |
अनुभूतिबलाच्चापि युक्तितोऽपि श्रुतेरपि। |
दीपाद्दीपो यथा तद्वत्पितुः पुत्रः प्रजायते। |
अतोऽयं पुत्र आत्मेति मन्यते भ्रान्तिमत्तमः। |
प्रीतिमात्रात्कथं पुत्र आत्मा भवितुमर्हति। |
पुत्राद्विशिष्टा देहेऽस्मिन्प्राणिनां प्रीतिरिष्यते। |
तं विक्रीणाति देहार्थं प्रतिकूलं निहन्ति च। |
गुणरूपादिसादृश्यं दीपवन्न सुते पितुः। |
आभासमात्रास्ताः सर्वा युक्तयोऽप्युक्तयोऽपि च। |
स्वामित्वद्योतनायास्मिन्नात्मत्वमुपचर्यते। |
औपचारिकमात्मत्वं पुत्रे तस्मान्न मुख्यतः। |
प्रत्यक्षः सर्वजन्तूनां देहोऽहमिति निश्चयः। |
पुरुषत्वं वदत्यस्य स्वात्मा हि पुरुषस्ततः। |
तन्मतं दूषयत्यन्योऽसहमानः पृथग्जनः। |
इन्द्रियैश्चाल्यमानोऽयं चेष्टते न स्वतः क्वचित्। |
बाल्यादिनानावस्थावाञ्शुक्लशोणितसंभवः। |
बधिरोऽहं च काणोऽहं मूक इत्यनुभूतितः। |
इन्द्रियाणां चेतनत्वं देहे प्राणाः प्रजापतिम्। |
यतस्तस्मादिन्द्रियाणां युक्तमात्मत्वमित्यमुम्। |
इन्द्रियाणि कथं त्वात्मा करणानि कुठारवत्। |
श्रुत्याधिदेवतामेवेन्द्रियेषूपचर्यते। |
अचेतनस्य दीपादेरर्थाभासकता यथा। |
इन्द्रियाणां चेष्टयिता प्राणोऽयं पञ्चवृत्तिकः। |
श्रुत्यान्योऽन्तर आत्मा प्राणमय इतीर्यते यस्मात्। |
इति निश्चयमेतस्य दूषयत्यपरो जडः। |
बहिर्यात्यन्तरायाति भस्त्रिकावायुवन्मुहुः। |
जडस्वभावश्चपलः कर्मयुक्तश्च सर्वदा। |
मनस्तु सर्वं जानाति सर्ववेदनकारणम्। |
संकल्पवानहं चिन्तावानहं च विकल्पवान्। |
इत्यादिश्रुतिसद्भावाद्युक्ता मनस आत्मता। |
कथं मनस आत्मत्वं करणस्य दृगादिवत्। |
करणप्रयोक्ता यः कर्ता तस्यैवात्मत्वमर्हति। |
अहं कर्तास्म्यहं भोक्ता सुखीत्यनुभवादपि। |
अन्योऽन्तर आत्मा विज्ञानमय इति वदति निगमः। |
विज्ञानं यज्ञं तनुते कर्माणि तनुतेऽपि च। |
प्राभाकरस्तार्किकश्च तावुभावप्यमर्षया। |
बुद्धेरज्ञानकार्यत्वाद्विनाशित्वात्प्रतिक्षणम्। |
अज्ञोऽहमित्यनुभवादास्त्रीबालादिगोचरात्। |
विज्ञानमयादन्यं त्वानन्दमयं परं तथात्मानम्। |
दुःखप्रत्ययशून्यत्वादानन्दमयता मता। |
दुःखिनोऽपि सुषुप्तौ त्वानन्दमयता ततः। |
यत एवमतो युक्ता ह्यज्ञानस्यात्मता ध्रुवम्। |
कथमज्ञानमेवात्मा ज्ञानं चाप्युपलभ्यते। |
इत्यज्ञानमपि ज्ञानं प्रबुद्धेषु प्रदृश्यते। |
प्रब्रवीत्युभयात्मत्वमात्मनः स्वयमेव सा। |
न केवलाज्ञानमयो घटकुड्यादिवज्जडः। |
ज्ञानाज्ञानमयस्त्वात्मा कथं भवितुमर्हति। |
सामानाधिकरण्यं वा संयोगो वा समाश्रयः। |
अज्ञानमपि विज्ञानं बुद्धिर्वापि च तद्गुणाः। |
मात्रादिलक्षणं किं नु शून्यमेवोपलभ्यते। |
सुप्तोत्थितजनैः सर्वैः शून्यमेवानुस्मर्यते। |
वेदेनाप्यसदेवेदमग्र आसीदिति स्फुटम्। |
असन्नेव घटः पूर्वं जायमानः प्रदृश्यते। |
यत्तस्मादसतः सर्वं सदिदं समजायत। |
इत्येवं पण्डितंमन्यैः परस्परविरोधिभिः। |
निर्णीतमतजातानि खण्डितान्येव पण्डितैः। |
यतस्तस्मात्तु पुत्रादेः शून्यान्तस्य विशेषतः। |
न हि प्रमाणान्तरबाधितस्य |
शिष्यः -- |
यद्यस्ति चात्मा किमु नोपलभ्यते |
एतत्संशयजातं मे हृदयग्रन्थिलक्षणम्। |
श्रीगुरुः -- |
श्रृणु वक्ष्यामि सकलं यद्यत्पृष्टं त्वयाधुना। |
बुद्ध्यादि सकलं सुप्तावनुलीनं स्वकारणे। |
तिष्ठत्येव स्वरूपेण न तु शून्यायते जगत्। |
अव्याकृतात्मनावस्थां जगतो वदति श्रुतिः। |
इममर्थमविज्ञाय निर्णीतं श्रुतियुक्तिभिः। |
नासतः सत उत्पत्तिः श्रूयते न च दृश्यते। |
प्रभवति न हि कुम्भोऽविद्यमानो मृदश्चे |
अन्यथा विपरीतं स्यात्कार्यकारणलक्षणम्। |
कथमसतः सज्जायेतेति श्रत्या निषिध्यते तस्मात्। |
अव्यक्तशब्दिते प्राज्ञे सत्यात्मन्यत्र जाग्रति। |
सुषुप्तौ शून्यमेवेति केन पुंसा तवेरितम्। |
इति पृष्टो मूढतमो वदिष्यति किमुत्तरम्। |
स्वेनानुभूतं स्वयमेव वक्ति |
अवेद्यमानः स्वयमन्यलोकैः |
यस्येदं सकलं विभाति महसा तस्य स्वयंज्योतिषः |
येनानुभूयते सर्वं जाग्रत्स्वप्नसुषुप्तिषु। |
सर्वस्य दाहको वह्निर्वह्नेर्नान्योऽस्ति दाहकः। |
उपलभ्येत केनायं ह्युपलब्धा स्वयं ततः। |
बुद्ध्यादिवेद्यविलयादयमेक एव |
सुषुप्तावात्मसद्भावे प्रमाणं पण्डितोत्तमाः। |
प्रत्यभिज्ञायमानत्वाल्लिङ्गमात्रानुमापकम्। |
पुरानुभूतो नो चेत्तु स्मृतेरनुदयो भवेत्। |
यत्रात्मनोऽकामयितृत्वबुद्धिः |
अकामयितृता स्वप्नाद्दर्शनं घटते कथम्। |
एतैः प्रमाणैरस्तीति ज्ञातः साक्षितया बुधैः। |
सत्त्वचित्त्वानन्दतादिलक्षणं प्रत्यगात्मनः। |
शुद्धचैतन्यरूपत्वं चित्त्वं ज्ञानस्वरूपतः। |
अनुस्यूतात्मनः सत्ता जाग्रत्स्वप्नसुषुप्तिषु। |
सर्वदाप्यासमित्येवाभिन्नप्रत्यय ईक्ष्यते। |
आयातासु गतासु शैशवमुखावस्थासु जाग्रन्मुखा |
प्रतिपदमहमादयो विभिन्नाः |
यः स्वप्नमद्राक्षमहं सुखं यो |
श्रुत्युक्ताः षोडशकलाश्चिदाभासस्य नात्मनः। |
जडप्रकाशकः सूर्यः प्रकाशात्मैव नो जडः। |
कुड्यादेस्तु जडस्य नैव घटते भानं स्वतः सर्वदा |
स्वभासने वान्यपदार्थभासने |
अन्यप्रकाशं न किमप्यपेक्ष्य |
यं न प्रकाशयति किंचिदिनोऽपि चन्द्रः |
आत्मनः सुखरूपत्वादानन्दत्वं स्वलक्षणम्। |
सुखहेतुषु सर्वेषां प्रीतिः सावधिरीक्ष्यते। |
क्षीणेन्द्रियस्य जीर्णस्य संप्राप्तोत्क्रमणस्य वा। |
आत्मातः परमप्रेमास्पदः सर्वशरीरिणाम्। |
एष एव प्रियतमः पुत्रादपि धनादपि। |
प्रियत्वेन मतं यत्तु तत्सदा नाप्रियं नृणाम्। |
आत्मा खलु प्रियतमोऽसुभृतां यदर्था |
प्रवृत्तिश्च निवृत्तिश्च यच्च यावच्च चेष्टितम्। |
तस्मादात्मा केवलानन्दरूपो |
शिष्यः -- |
आत्मान्यः सुखमन्यच्च नात्मनः सुखरूपता। |
आत्मनः सुखरूपत्वे प्रयत्नः किमु देहिनाम्। |
श्रीगुरुः -- |
अज्ञात्वैव हि निक्षेपं |
स्थूलं च सूक्ष्मं च वपुः स्वभावतो |
न हि दुःखप्रदं वस्तु सुखं दातुं सर्महति। |
आत्मान्यः सुखमन्यच्चेत्येवं निश्चित्य पामरः। |
इष्टस्य वस्तुनो ध्यानदर्शनाद्युपभुक्तिषु। |
स वस्तुधर्मो नो यस्मान्मनस्येवोपलभ्यते। |
अन्यत्र त्वन्यधर्माणामुपलम्भो न दृश्यते। |
नाप्येष धर्मो मनसोऽसत्यर्थे तददर्शनात्। |
सत्यर्थेऽपि च नोदेति ह्यानन्दस्तूक्तलक्षणः। |
दुरदृष्टादिकं नात्र प्रतिबन्धः प्रकल्प्यताम्। |
तस्मान्न मानसो धर्मो निर्गुणत्वान्न चात्मनः। |
सत्त्वप्रधाने चित्तेऽस्मिंस्त्वात्मैव प्रतिबिम्बति। |
सोऽयमाभास आनन्दश्चित्ते यः प्रतिबिम्बितः। |
सार्वभौमादिब्रह्मान्तं श्रुत्या यः प्रतिपादितः। |
यात्येष विषयानन्दो यस्तु पुण्यैकसाधनः। |
दुःखं च भोगकालेऽपि तेषामन्ते महत्तरम्। |
भोगकालेऽपि भोगान्ते दुःखमेव प्रयच्छति। |
भोगकाले भवेन्नृ़णां ब्रह्मादिपदभाजिनाम्। |
तथैव दुःखं जन्तूनां ब्रह्मादिपदभाजिनाम्। |
यो बिम्बभूत आनन्दः स आत्मानन्दलक्षणः। |
लक्ष्यते प्रतिबिम्बेनाभासानन्देन बिम्बवत्। |
यत्ततो बिम्ब आनन्दः प्रतिबिम्बेन लक्ष्यते। |
अविद्याकार्यकरणसंघातेषु पुरोदितः। |
स्थूलस्यापि च सूक्ष्मस्य दुःखरूपस्य वर्ष्मणः। |
न ह्यत्र विषयः कश्चिन्नापि बुद्ध्यादि किंचन। |
प्रत्यभिज्ञायते सर्वैरेष सुप्तोत्थितैर्जनैः। |
त्वयापि प्रत्यभिज्ञातं सुखमात्रत्वमात्मनः। |
दुःखाभावः सुखमिति यदुक्तं पूर्ववादिना। |
दुःखाभावस्तु लोष्टादौ विद्यते नानुभूयते। |
सदयं ह्येष एवेति प्रस्तुत्य वदति श्रुतिः। |
आनन्दघनतामस्य स्वरूपं प्रत्यगात्मनः। |
अपरोक्षतयैवात्मा समाधावनुभूयते। |
स्वस्वोपाध्यनुरूपेण ब्रह्माद्याः सर्वजन्तवः। |
आस्वाद्यते यो भक्ष्येषु सुखकृन्मधुरो रसः। |
तद्वद्विषयसांनिध्यादानन्दो यः प्रतीयते। |
यस्य कस्यापि योगेन यत्र कुत्रापि दृश्यते। |
यथा कुवलयोल्लासश्चन्द्रस्यैव प्रसादतः। |
सत्त्वं चित्त्वं तथानन्दस्वरूपं परमात्मनः। |
विशेषणं तु व्यावृत्त्यै भवेद्द्रव्यान्तरे सति। |
वस्त्वन्तरस्याभावेन न व्यावृत्त्यः कदाचन। |
श्रुत्यैव न ततस्तेषां गुणत्वमुपपद्यते। |
सत्त्वचित्त्वानन्दताहि स्वरूपमिति निश्चितम्। |
भेदो न विद्यते वस्तुन्यद्वितीये परात्मनि। |
नेष्यते तत्प्रकारं ते वक्ष्यामि श्रृणु सादरम्। |
विवर्तस्यास्य जगतः सन्मात्रत्वेन दर्शनम्। |
व्युत्क्रमेण तदुत्पत्तेर्द्रष्टव्यं सूक्ष्मबुद्धिभिः। |
चतुर्विधं स्थूलशरीरजातं |
यत्कार्यरूपेण यदीक्ष्यते त |
अन्तर्बहिश्चापि मृदेव दृश्यते |
स्वरूपतस्तत्कलशादिनाम्ना |
तस्माद्धि कार्यं न कदापि भिन्नं |
तच्चापि पञ्चीकृतभूतजातं |
तदप्यपञ्चीकृंतभूंतजातं |
आधारभूतं यदखण्डमाद्यं |
एकश्चन्द्रः सद्वितीयो यथा स्या |
रज्जोः स्वरूपाधिगमे न सर्पधी |
भ्रान्त्योदितद्वैतमतिप्रशान्त्या |
यदास्त्युपाधिस्तदभिन्न आत्मा |
घटाभावे घटाकाशो महाकाशो यथा तथा। |
पूर्ण एव सदाकाशो घटे सत्यप्यसत्यपि। |
अच्छिन्नश्छिन्नवद्भाति पामराणां घटादिना। |
तथैव परमं ब्रह्म महतां च महत्तमम्। |
तस्माद्ब्रह्मात्मनोर्भेदः कल्पितो न तु वास्तवः। |
ब्रह्मात्मनोस्तत्त्वमसीत्यद्वयत्वोपपत्तये। |
शिष्यः -- |
वाच्यैकत्वविवक्षायां विरोधः कः प्रतीयते। |
एकत्वकथने का वा लक्षणात्रोररीकृता। |
श्रीगुरुः -- |
यावन्न तत्त्वंपदयोरर्थः सम्यग्विचार्यते। |
अवस्था सच्चिदानन्दाखण्डैकरसरूपिणी। |
वाक्यार्थ एव ज्ञातव्यो मुमुक्षोर्भवमुक्तये। |
अर्था बहुविधाः प्रोक्ता वाक्यानां पण्डितोत्तमैः। |
वाक्ये तत्त्वमसीत्यत्र विद्यते यत्पदत्रयम्। |
शास्त्रार्थकोविदैरर्थो वाच्यो लक्ष्य इति द्विधा। |
समष्टिरूपमज्ञानं साभासं सत्त्वबृंहितम्। |
चैतन्यं तदवच्छिन्नं सत्यज्ञानादिलक्षणम्। |
जगत्स्रष्टृत्वपातृत्वसंहर्तृत्वादिधर्मकम्। |
अव्यक्तमपरं ब्रह्म वाच्यार्थ इति कथ्यते। |
तथा तत्त्वमसीत्यत्र नास्ति वाक्यार्थसंगतिः। |
शौक्ल्याद्व्यावर्तते नीलेनोत्पलं तु विशेषितम्। |
विशेषणविशेष्यत्वसंसर्गस्येतरस्य वा। |
अतः संगच्छते सम्यग्वाक्यार्थो बाधवर्जितः। |
तदर्थस्य परोक्षत्वादिविशिष्टचितेरपि। |
तथैवान्योन्यभेदस्य व्यावर्तकतया तयोः। |
वाक्यार्थत्वे विरोधोऽस्ति प्रत्यक्षादिकृतस्ततः। |
सर्वेशत्वस्वतन्त्रत्वसर्वज्ञत्वादिभिर्गुणैः। |
तत्पदार्थस्त्वमर्थस्तु किंचिज्ज्ञो दुःखजीवनः। |
कथमेकत्वमनयोर्घटते विपरीतयोः। |
विरुद्धधर्माक्रान्तत्वात्परस्परविलक्षणौ। |
प्रत्यक्षादिविरोधः स्यादित्यैक्ये तयोः परित्यक्ते। |
श्रुत्याप्येकत्वमनयोस्तात्पर्येण निगद्यते। |
वाक्यार्थत्वे विशिष्टस्य संसर्गस्य च वा पुनः। |
अखण्डैकरसत्वेन वाक्यार्थः श्रुतिसंमतः। |
दर्शयित्वा सुषुप्तौ तद्ब्रह्माभिन्नत्वमात्मनः। |
ऐतदात्म्यमिदं सर्वमित्युक्त्यैव सदात्मनोः। |
सति प्रपञ्चे जीवे वाद्वैतत्वं ब्रह्मणः कुतः। |
विरुद्धांशपरित्यागात्प्रत्यक्षादिर्न बाधते। |
लक्षणा ह्युपगन्तव्या ततो वाक्यार्थसिद्धये। |
संबन्धानुपपत्त्या च लक्षणेति जगुर्बुधाः। |
न सा तत्त्वमसीत्यत्र वाक्य एषा प्रवर्तते। |
सर्वो विरुद्धवाक्यार्थस्तत्र प्रत्यक्षतस्ततः। |
तथा तत्त्वमसीत्यत्र चैतन्यैकत्वलक्षणे। |
विरुध्यते भागमात्रो न तु सर्वो विरुध्यते। |
वाच्यार्थस्य तु सर्वस्य त्यागे न फलमीक्ष्यते। |
गङ्गापदं यथा स्वार्थं त्यक्त्वा लक्षयते तटम्। |
तदर्थं वा त्वमर्थं वा यदि लक्षयति स्वयम्। |
न शङ्कनीयमित्यार्यैर्ज्ञातार्थे न हि लक्षणा। |
तदर्थे च कथं तत्र संप्रवर्तेत लक्षणा। |
अजहल्लक्षणा वापि सा जहल्लक्षणा यथा। |
अतस्तमपरित्यज्य तद्गुणाश्रयलक्षणः। |
वाक्ये तत्त्वमसीत्यत्र ब्रह्मात्मैकत्वबोधके। |
एकत्वरूपवाक्यार्थो विरुद्धांशाविवर्जनात्। |
तत्पदं त्वंपदं चापि स्वकीयार्थविरोधिनम्। |
तदर्थं वा त्वमर्थं वा सम्यग्लक्षयतः स्वयम्। |
अविरुद्धं पदार्थान्तरांशं स्वांशं च तत्कथम्। |
पदान्तरेण सिद्धायां पदार्थप्रमितौ स्वतः। |
तस्मात्तत्त्वमसीत्यत्र लक्षणा भागलक्षणा। |
भागं विरुद्धं संत्यज्याविरोधो लक्ष्यते यदा। |
सोऽयं देवदत्त इति वाक्यं वाक्यार्थ एव वा। |
देशकालादिवैशिष्ट्यं विरुद्धांशं निरस्य च। |
भागलक्षणया सम्यग्लक्षयत्यनया यथा। |
परोक्षत्वापरोक्षत्वादिविशिष्टचितोर्द्वयोः। |
परोक्षत्वापरोक्षत्वसर्वज्ञत्वादिलक्षणम्। |
परित्यज्य विरुद्धांशं शुद्धचैतन्यलक्षणम्। |
लक्षयत्यनया सम्यग्भागलक्षणया ततः। |
निर्विशेषं निराभासमतादृशमनीदृशम्। |
उपाधिवैशिष्ट्यकृतो विरोधो |
तयोरुपाधिश्च विशिष्टता च |
निद्रासूतशरीरधर्मसुखदुःखादिप्रपञ्चोऽपि वा |
न स्वप्नजागरणयोरुभयोर्विशेषः |
अविद्याकार्यतस्तुल्यौ द्वावपि स्वप्नजागरौ। |
अभाव उभयोः सुप्तौ सर्वैरप्यनुभूयते। |
भ्रान्त्या ब्रह्मणि भेदोऽयं सजातीयादिलक्षणः। |
यत्र नान्यत्पश्यतीति श्रुतिर्द्वैतं निषेधति। |
यतस्ततो ब्रह्म सदाद्वितीयं |
नैवास्ति काचन भिदा न गुणप्रतीति |
यदिदं परमं सत्यं तत्त्वं सच्चित्सुखात्मकम्। |
न हि त्वं देहोऽसावसुरपि च वाप्यक्षनिकरो |
यज्जायते वस्तु तदेव वर्धते |
य एष देहो जनितः स एव |
यत्स्वप्रकाशमखिलात्मकमासुषुप्ते |
स्वात्मन्यनस्तमयसंविदि कल्पितस्य |
सम्यक्समाधिनिरतैर्विमलान्तरङ्गे |
अन्तर्बहिः स्वयमखण्डितमेकरूप |
श्रुत्युक्तमव्ययमनन्तमनादिमध्य |
शरीरतद्योगतदीयधर्मा |
यद्यद्दृष्टं भ्रान्तिमत्या स्वदृष्ट्या |
पश्यतस्त्वहमेवेदं सर्वमित्यात्मनाखिलम्। |
तस्मात्त्वमभयं नित्यं केवलानन्दलक्षणम्। |
ज्ञातृज्ञानज्ञेयविहीनं ज्ञातुरभिन्नं ज्ञानमखण्डम्। |
अन्तःप्रज्ञत्वादिविकल्पैरस्पृष्टं यत्तद्दृशिमात्रम्। |
सर्वाकारं सर्वमसर्वं सर्वनिषेधावधिभूतं यत्। |
नित्यानन्दाखण्डैकरसं निष्कलमक्रियमस्तविकारम्। |
त्वं प्रत्यस्ताशेषविशेषं व्योमेवान्तर्बहिरपि पूर्णम्। |
ब्रह्मैवाहमहं ब्रह्म निर्गुणं निर्विकल्पकम्। |
अखण्डामेवैतां घटितपरमानन्दलहरीं |
ब्रह्मानन्दरसास्वादतत्परेणैव चेतसा। |
शिष्यः -- |
समाधिः कः कतिविधस्तत्सिद्धेः किमु साधनम्। |
श्रीगुरुः -- |
श्रद्धाभक्तिपुरःसरेण विहितेनैवेश्वरं कर्मणा |
अध्यारोपापवादक्रममनुसरता देशिकेनात्र वेत्त्रा |
अखण्डाकारवृत्तिः सा चिदाभाससमन्विता। |
बाधते तद्गताज्ञानं यदावरणलक्षणम्। |
तत्कार्यं सकलं तेन समं भवति बाधितम्। |
तस्य कार्यतया जीववृत्तिर्भवति बाधिता। |
तद्वदेव चिदाभासचैतन्यं वृत्तिसंस्थितम्। |
प्रचण्डातपमध्यस्थदीपवन्नष्टदीधितिः। |
बिम्बभूतपरब्रह्ममात्रं भवति केवलम्। |
मुखमात्रं भवेत्तद्वदेतच्चोपाधिसंक्षयात्। |
घटं विस्फुरयत्येष चिदाभासः स्वतेजसा। |
अत एव मतं वृत्तिव्याप्यत्वं वस्तुनः सताम्। |
श्रुत्योदितस्ततो ब्रह्म ज्ञेयं बुद्ध्यैव सूक्ष्मया। |
स्यादखण्डाकारवृत्तिर्विना तु मननादिना। |
बुद्धेः सूक्ष्मत्वमायाति ततो वस्तूपलभ्यते। |
श्रवणं मननं ध्यानं सम्यग्वस्तूपलब्धये। |
परे ब्रह्मणि तात्पर्यनिश्चयं श्रवणं विदुः। |
वेदान्तवाक्यानुगुणयुक्तिभिस्त्वनुचिन्तनम्। |
विजातीयशरीरादिप्रत्ययत्यागपूर्वकम्। |
तैलधारावदच्छिन्नवृत्त्या तद्ध्यानमिष्यते। |
प्रमाणसंशयो यावत्स्वबुद्धेर्न निवर्तते। |
आत्मयाथार्थ्यनिश्चित्त्यै कर्तव्यं मननं मुहुः। |
यावन्न तर्केण निरासितोऽपि |
सविकल्पो निर्विकल्प इति द्वेधा निगद्यते। |
ज्ञात्राद्यविलयेनैव ज्ञेये ब्रह्मणि केवले। |
सद्भिः स एव विज्ञेयः समाधिः सविकल्पकः। |
सन्मात्रवस्तुभानेऽपि त्रिपुटी भाति सन्मयी। |
ज्ञात्रादिभावमुत्सृज्य ज्ञेयमात्रस्थितिर्दृढा। |
जले निक्षिप्तलवणं जलमात्रतया स्थितम्। |
यथा तथैव सा वृत्तिर्ब्रह्ममात्रतया स्थिता। |
ज्ञात्रादिकल्पनाभावान्मतोऽयं निर्विकल्पकः। |
समाधिसुप्त्योर्ज्ञानं चाज्ञानं सुप्त्यात्र नेष्यते। |
मुमुक्षोर्यत्नतः कार्यौ विपरीतनिवृत्तये। |
ज्ञानस्याप्रतिबद्धत्वं सदानन्दश्च सिध्यति। |
सविकल्पस्तयोर्यत्तल्लक्षणं वच्मि तच्छृणु। |
सोऽयं दृश्यानुविद्धः स्यात्समाधिः सविकल्पकः। |
दृश्यन्ते येन संदृष्टा दृश्याः स्युरहमादयः। |
साक्षिणं स्वं विजानीयाद्यस्ताः पश्यति निष्क्रियः। |
इति साक्षितयात्मानं जानात्यात्मनि साक्षिणम्। |
नाहं देहो नाप्यसुर्नाक्षवर्गो |
वाचः साक्षी प्राणवृत्तेश्च साक्षी |
नाहं स्थूलो नापि सूक्ष्मो न दीर्घो |
नास्म्यागन्ता नापि गन्ता न हन्ता |
नाहं योगी नो वियोगी न रागी |
नान्तःप्रज्ञो नो बहिःप्रज्ञको वा |
न मेऽस्ति देहेन्द्रियबुद्धियोगो |
अपाणिपादोऽहमवागचक्षुषी |
इति स्वमात्मानमवेक्षमाणः |
विपरीतात्मतास्फूर्तिरेव मुक्तिरितीर्यते। |
न वेषभाषाभिरमुष्य मुक्तिर्या |
स्वात्मतत्त्वं समालम्ब्य कुर्यात्प्रकृतिनाशनम्। |
ज्ञात्वा देवं सर्वपाशापहानिः |
भूयो जन्माद्यप्रसक्तिर्विमुक्तिः |
क्लेशाः स्युर्वासना एव जन्तोर्जन्मादिकारणम्। |
बीजान्यग्निप्रदग्धानि न रोहन्ति यथा पुनः। |
तस्मान्मुमुक्षोः कर्तव्या ज्ञाननिष्ठा प्रयत्नतः। |
ज्ञाननिष्ठातत्परस्य नैव कर्मोपयुज्यते। |
परस्परविरुद्धत्वात्तयोर्भिन्नस्वभावयोः। |
देहात्मबुद्धेर्विच्छित्त्यै ज्ञानं कर्म विवृद्धये। |
ज्ञानेन कर्मणो योगः कथं सिध्यति वैरिणा। |
निमेषोन्मेषयोर्वापि तथैव ज्ञानकर्मणोः। |
ज्ञानैकनिष्ठानिरतस्य भिक्षो |
बुद्धिकल्पितमालिन्यक्षालनं स्नानमात्मनः। |
स्वस्वरूपे मनःस्थानमनुष्ठानं तदिष्यते। |
विनिषिध्याखिलं दृश्यं स्वस्वरूपेण या स्थितिः। |
विज्ञातपरमार्थानां शुद्धसत्त्वात्मनां सताम्। |
तस्मात्िक्रयान्तरं त्यक्त्वा ज्ञाननिष्ठापरो यतिः। |
कर्तव्यं स्वोचितं कर्म योगमारोढुमिच्छता। |
योगं समारोहति यो मुमुक्षुः |
योगारूढस्य सिद्धस्य कृतकृत्यस्य धीमतः। |
शुद्धोऽहं बुद्धोऽहं प्रत्यग्रूपेण नित्यसिद्धोऽहम्। |
आद्योऽहमनाद्योऽहं वाङ्मनसा साध्यवस्तुमात्रोऽहम्। |
विदिताविदितान्योऽहं मायातत्कार्यलेशशून्योऽहम्। |
अपरोऽहमनपरोऽहं बहिरन्तश्चापि पूर्ण एवाहम्। |
प्रत्यगभिन्नमखण्डं सत्यज्ञानादिलक्षणं शुद्धम्। |
एवं सन्मात्रगाहिन्या वृत्त्या तन्मात्रगाहकैः। |
कामादिदृश्यप्रविलापपूर्वकं |
दृश्यस्यापि च साक्षित्वात्समुल्लेखनमात्मनि। |
सविकल्पसमाधिं यो दीर्घकालं निरन्तरम्। |
निर्विकल्पकसमाधिनिष्ठया |
विद्वानहमिदमिति वा किंचि |
निर्विकल्पं परं ब्रह्म यत्तस्मिन्नेव निष्ठिताः। |
यथा समाधित्रितयं यत्नेन क्रियते हृदि। |
तत्प्रकारं प्रवक्ष्यामि निशामय समासतः। |
तत्राध्यस्तमिदं भाति नामरूपात्मकं जगत्। |
अध्यस्तजगतो रूपं नामरूपमिदं द्वयम्। |
एकीकृत्योच्यते मूर्खैरिदं विश्वमिति भ्रमात्। |
एकीकृत्य तरङ्गोऽयमिति निर्दिश्यते यथा। |
स्वरूपमात्रग्रहणं समाधिर्बाह्य आदिमः। |
नामरूपे पृथक्कृत्वा ब्रह्मण्येव विलापयन्। |
इयं भूर्न सन्नापि तोयं न तेजो |
न शब्दो न रूपं न च स्पर्शको वा |
न सद्द्रव्यजातं गुणा न क्रिया वा |
न देहो न चाक्षाणि न प्राणवायु |
न देशो न कालो न दिग्वापि सत्स्या |
एतद्दृश्यं नामरूपात्मकं यो |
अध्यस्तनामरूपादिप्रविलापेन निर्मलम्। |
निर्विकारं निराकारं निरञ्जनमनामयम्। |
निष्कलङ्कं निरातङ्कं त्रिविधच्छेदवर्जितम्। |
निर्विशेषं निराभासं नित्यमुक्तमविक्रियम्। |
शुद्धं बुद्धं तत्त्वसिद्धं परं प्रत्यगखण्डितम्। |
सुसूक्ष्ममस्तितामात्रं निर्विकल्पं महत्तमम्। |
इत्येवं निर्विकारादिशब्दमात्रसमर्पितम्। |
ब्रह्मानन्दरसावेशादेकीभूय तदात्मना। |
उत्थाने वाप्यनुत्थानेऽप्यप्रमत्तो जितेन्द्रियः। |
विपरीतार्थधीर्यावन्न निःशेषं निवर्तते। |
न प्रमादोऽत्र कर्तव्यो विदुषा मोक्षमिच्छता। |
स्वानुभूतिं परित्यज्य न तिष्ठन्ति क्षणं बुधाः। |
अस्मिन्समाधौ कुरुते प्रयासं |
सर्वात्मभावो विदुषो ब्रह्मविद्याफलं विदुः। |
योऽहं ममेत्याद्यसदात्मगाहको |
एष निष्कण्टकः पन्था मुक्तेर्ब्रह्मात्मना स्थितेः। |
तस्मात्त्वं चाप्यप्रमत्तः समाधी |
निर्विकल्पसमाधिर्यो वृत्तिर्नैश्चल्यलक्षणा। |
अष्टावङ्गानि योगस्य यमो नियम आसनम्। |
ध्यानं समाधिरित्येव निगदन्ति मनीषिणः। |
यमोऽयमिति संप्रोक्तोऽभ्यसनीयो मुहुर्मुहुः। |
नियमो हि परानन्दो नियमात्िक्रयते बुधैः। |
आसनं तद्विजानीयादितरत्सुखनाशनम्। |
निरोधः सर्ववृत्तीनां प्राणायामः स उच्यते। |
ब्रह्मैवास्मीति या वृत्तिः पूरको वायुरीरितः। |
अयं चापि प्रबुद्धानामज्ञानां प्राणपीडनम्। |
प्रत्यहारः स विज्ञेयोऽभ्यसनीयो मुमुक्षुभिः। |
मनसो धारणं चैव धारणा सा परा मता। |
ध्यानशब्देन विख्याता परमानन्ददायिनी। |
वृत्तिविस्मरणं सम्यक्समाधिर्ध्यानसंज्ञिकः। |
अनुसंधानराहित्यमालस्यं भोगलालसम्। |
एवं यद्विघ्नबाहुल्यं त्याज्यं तद्ब्रह्मविज्जनैः। |
इति गुरुवचनाच्छ्रुतिप्रमाणा |
बहुकालं समाधाय स्वस्वरूपे तु मानसम्। |
प्रमाणपूर्वकं धीमान्सगद्गदमुवाच ह। |
मुक्तसङ्गाय शान्ताय त्यक्ताहंताय ते नमः। |
किं करोमि क्व गच्छामि किं गृह्णामि त्यजामि किम्। |
मयि सुखबोधपयोधौ महति ब्रह्माण्डबुद्बुदसहस्रम्। |
नित्यानन्दस्वरूपोऽहमात्माहं त्वदनुग्रहात्। |
अकर्ताहमभोक्ताहमविकारोऽहमक्रियः। |
त्वत्कटाक्षवरचान्द्रचन्द्रिकापातधूतभवतापजः श्रमः। |
छायया स्पृष्टमुष्णं वा शीतं वा दुष्टु सुष्ठु वा। |
न साक्षिणं साक्ष्यधर्मा न स्पृशन्ति विलक्षणम्। |
रवेर्यथा कर्मणि साक्षिभावो |
इत्युक्त्वा स गुरुं स्तुत्वा प्रश्रयेण कृतानतिः। |
जीवन्मुक्तस्य भगवन्ननुभूतेश्च लक्षणम्। |
श्रीगुरुः -- |
ज्ञानभूमिः शुभेच्छा स्यात्प्रथमा समुदीरिता। |
सत्त्वापत्तिश्चतुर्थी स्यात्ततोऽसंसक्तिनामिका। |
स्थितः किं मूढ एवास्मि प्रेक्ष्योऽहं शास्त्रसज्जनैः। |
शास्त्रसज्जनसंपर्कवैराग्याभ्यासपूर्वकम्। |
विचारणाशुभेच्छाभ्यामिन्द्रियार्थेष्वरक्तता। |
भूमिकात्रितयाभ्यासाच्चित्तेऽर्थविरतेर्वशात्। |
दशाचतुष्टयाभ्यासादसंसर्गफला तु या। |
भूमिकापञ्चकाभ्यासात्स्वात्मारामतया भृशम्। |
परप्रयुक्तेन चिरप्रयत्नेनावबोधनम्। |
षड्भूमिकाचिराभ्यासाद्भेदस्यानुपलम्भनात्। |
इदं ममेति सर्वेषु दृश्यभावेष्वभावना। |
विदित्वा सच्चिदानन्दे मयि दृश्यपरम्पराम्। |
परिपूर्णचिदाकाशे मयि बोधात्मतां विना। |
मूलाज्ञानविनाशेन कारणाभासचेष्टितैः। |
कारणाज्ञाननाशाद्यद्द्रष्टृदर्शनदृश्यता। |
अतिसूक्ष्मविमर्शेन स्वधीवृत्तिरचञ्चला। |
चिन्मयाकारमतयो धीवृत्तिप्रसरैर्गतः। |
वृत्तौ चिरानुभूतान्तरानन्दानुभवस्थितौ। |
दृश्यधीवृत्तिरेतस्य केवलीभावभावना। |
परब्रह्मवदाभाति निर्विकारैकरूपिणी। |
इत्यवस्थासमुल्लासं विमृशन्मुच्यते सुखी। |
यथावद्भेदबुद्ध्येदं जगज्जाग्रदितीर्यते। |
पश्यन्ति स्वप्नवल्लोकं तुर्यभूमिसुयोगतः। |
शान्ताशेषविशेषांशस्तिष्ठेदद्वैतमात्रके। |
परिश्रान्ततया गाढनिद्रालुरिव लक्ष्यते। |
तुर्यावस्थां सप्तभूमिं क्रमात्प्राप्नोति योगिराट्। |
यत्र नासन्न सच्चापि नाहं नाप्यनहंकृतिः। |
अन्तःशून्यो बहिःशून्यः शून्यकुम्भ इवाम्बरे। |
यथास्थितमिदं सर्वं व्यवहारवतोऽपि च। |
नोदेति नास्तमायाति सुखदुःखे मनः प्रभा। |
यो जागर्त्ति सुषुप्तिस्थो यस्य जाग्रन्न विद्यते। |
रागद्वेषभयादीनामनुरूपं चरन्नपि। |
यस्य नाहंकृतो भावो बुद्धिर्यस्य न लिप्यते। |
यः समस्तार्थजालेषु व्यवहार्यपि शीतलः। |
द्वैतवर्जितचिन्मात्रे पदे परमपावने। |
इदं जगदयं सोऽयं दृश्यजातमवास्तवम्। |
चिदात्माहं परात्माहं निर्गुणोऽहं परात्परः। |
देहत्रयातिरिक्तोऽहं शुद्धचैतन्यमस्म्यहम्। |
यस्य देहादिकं नास्ति यस्य ब्रह्मेति निश्चयः। |
अहं ब्रह्मास्म्यहं ब्रह्मास्म्यहं ब्रह्मेति निश्चयः। |
जीवन्मुक्तिपदं त्यक्त्वा स्वदेहे कालसात्कृते। |
ततस्तत्संबभूवासौ यद्गिरामप्यगोचरम्। |
विज्ञानं विज्ञानविदां मलानां च मलात्मकम्। |
शिवः शैवागमस्थानां कालः कालैकवादिनाम्। |
ब्रह्मैवाहं चिदेवाहमेवं वापि न चिन्त्यते। |
यस्य प्रपञ्चभानं न ब्रह्माकारमपीह न। |
चित्तवृत्तेरतीतो यश्चित्तवृत्त्यावभासकः। |
जीवात्मेति परमात्मेति सर्वचिन्ताविवर्जितः। |
ओंकारवाच्यहीनात्मा सर्ववाच्यविवर्जितः। |
अहिनिर्ल्वयनीसर्पनिर्मोको जीववर्जितः। |
एवं स्थूलं च सूक्ष्मं च शरीरं नाभिमन्यते। |
नेति नेतीत्यरूपत्वादशरीरो भवत्ययम्। |
विराड् हिरण्यगर्भश्च ईश्वरश्चेति च ते त्रयम्। |
स्वस्वोपाधिलयादेव लीयन्ते प्रत्यगात्मनि। |
कालभेदं वस्तुभेदं देशभेदं स्वभेदकम्। |
जीवेश्वरेति वाक्ये च वेदशास्त्रेष्वहं त्विति। |
इति निश्चयशून्यो यो विदेहो मुक्त एव सः। |
तद्विद्याविषयं ब्रह्म सत्यज्ञानसुखात्मकम्। |
सिद्धान्तोऽध्यात्मशास्त्राणां सर्वापह्नव एव हि। |
प्रियेषु स्वेषु सुकृतमप्रियेषु च दुष्कृतम्। |
यावद्यावच्च सद्बुद्धे स्वयं संत्यज्यतेऽखिलम्। |
यत्र यत्र मृतो ज्ञानी परमाक्षरवित्सदा। |
यद्यत्स्वाभिमतं वस्तु तत्त्यजन्मोक्षमश्नुते। |
सर्वं सर्वगतं शान्तं ब्रह्म संपद्यते तदा। |
ज्ञातज्ञेयः संप्रणम्य सद्गुरोश्चरणाम्बुजम्। |
गुरुरेष सदानन्दसिन्धौ निर्मग्नमानसः। |
इत्याचार्यस्य शिष्यस्य संवादेनात्मलक्षणम्। |
सर्ववेदान्तसिद्धान्तसारसंग्रहनामकः। |