Devotional Hymns - Miscellaneous
|
पूर्णस्यावाहनं कुत्र सर्वाधारस्य चासनम्। |
निर्मलस्य कुतः स्नानं वासो विश्वोदरस्य च। |
निर्लेपस्य कुतो गन्धः पुष्पं निर्वासनस्य च। |
निरञ्जनस्य किं धूपैर्दीपैर्वा सर्वसाक्षिणः। |
विश्वानन्दयितुस्तस्य किं ताम्बूलं प्रकल्पते। |
गीयते श्रुतिभिस्तस्य नीराजनविधिः कुतः। |
वेदवाचामवेद्यस्य किं वा स्तोत्रं विधीयते। |
श्रीगुरुरुवाच -- |
अयमेकोऽवशिष्टोऽस्मीत्येवमावाहयेच्छिवम्। |
पुण्यपापरजः सङ्गो मम नास्तीति वेदनम्। |
अनादिकल्पविधृतमूलाज्ञानजलाञ्जलिम्। |
ब्रह्मानन्दाब्धिकल्लोलकणकोट्यंशलेशकम्। |
ब्रह्मानन्दजलेनैव लोकाः सर्वे परिप्लुताः। |
निरावरणचैतन्यं प्रकाशोऽस्मीति चिन्तनम्। |
त्रिगुणात्माशेषलोकमालिकासूत्रमस्म्यहम्। |
अनेकवासनामिश्रप्रपञ्चोऽयं धृतो मया। |
रजःसत्त्वतमोवृत्तित्यागरूपैस्तिलाक्षतैः। |
ईश्वरो गुरुरात्मेति भेदत्रयविवर्जितैः। |
समस्तवासनात्यागं धूपं तस्य विचिन्तयेत्। |
नैवेद्यमात्मलिङ्गस्य ब्रह्माण्डाख्यं महोदनम्। |
अज्ञानोच्छिष्टकरस्य क्षालनं ज्ञानवारिणा। |
रागादिगुणशून्यस्य शिवस्य परमात्मनः। |
अज्ञानध्वान्तविध्वंसप्रचण्डमतिभास्करम्। |
विविधब्रह्मसंदृष्टिर्मालिकाभिरलंकृतम्। |
परिभ्रमन्ति ब्रह्माण्डसहस्राणि मयीश्वरे। |
विश्ववन्द्योऽहमेवास्मि नास्ति वन्द्यो मदन्यतः। |
आत्मनः सत्क्रिया प्रोक्ता कर्तव्याभावभावना |
श्रवणं तस्य देवतस्य श्रोतव्याभावचिन्तनम्। |
ध्यातव्याभावविज्ञानं निदिध्यासनमात्मनः। |
समाधिरात्मनो नाम नान्यच्चित्तस्य विभ्रमः। |
एवं वेदान्तकल्पोक्तस्वात्मलिङ्गप्रपूजनम्। |
सर्वदुर्वासनाजालं पदपांसुमिव त्यजेत्। |