Devotional Hymns - Miscellaneous
।।श्रीः।। |
कालभीतविप्रबालपाल ते नमः शिवाय |
इष्टवस्तुमुख्यदानहेतवे नमः शिवाय |
आपदद्रिभेदटङ्कहस्त ते नमः शिवाय |
व्योमकेश दिव्यभव्यरूप ते नमः शिवाय |
ब्रह्ममस्तकावलीनिबद्ध ते नमः शिवाय |
कामनाशनाय शुद्धकर्मणे नमः शिवाय |
जन्ममृत्युघोरदुःखहारिणे नमः शिवाय |
यक्षराजबन्धवे दयालवे नमः शिवाय |
दक्षहस्तनिष्ठजातवेदसे नमः शिवाय |
राजताचलेन्द्रसानुवासिने नमः शिवाय |
दीनमानवालिकामधेनवे नमः शिवाय |
सर्वमङ्गलाकुचाग्रशायिने नमः शिवाय |
स्तोकभक्तितोऽपि भक्तपोषिणे नमः शिवाय |
सर्वजीवरक्षणैकशीलिने नमः शिवाय |
पाहि मामुमामनोज्ञदेह ते नमः शिवाय |
मङ्गलप्रदाय गोतुरंग ते नमः शिवाय |
ईहितक्षणप्रदानहेतवे नमः शिवाय |
त्र्यक्ष दीनसत्कृपाकटाक्ष ते नमः शिवाय |
न्यङ्कुपाणये शिवंकराय ते नमः शिवाय |
कर्मपाशनाश नीलकण्ठ ते नमः शिवाय |
विष्टपाधिपाय नम्रविष्णवे नमः शिवाय |
अप्रमेयदिव्यसुप्रभाव ते नमः शिवाय |
सेवकाय मे मृड प्रसीद ते नमः शिवाय |
भुक्तिमुक्तिदिव्यभोगदायिने नमः शिवाय |
अन्तकान्तकाय पापहारिणे नमः शिवाय |
शूलिने नमो नमः कपालिने नमः शिवाय |
शिवपञ्चाक्षरमुद्रां |