Preliminary Texts

।।जीवन्मुक्तानंदलहरी।।


पुरै पौरान्पश्यन्नरयुवतिनामाकृतिमयान्

सुवेषान्स्वर्णालंकरणकलितांश्चित्रसदृशान्।

स्वयं साक्षी द्रष्टेत्यपि च कलयन् तैः सह रमन्
मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः।।1।।

वने वृक्षान्पश्यन्दलभरभरान्नम्रसुशिखान्

घनच्छायाच्छन्नान्बहुलकलकूजद्द्विजगणान्।

भजन्घस्रे रात्राववनितलतल्पैकशयनो
मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः।।2।।

कदाचित्प्रासादे क्वचिदपि च सौधे च धवले

कदाकाले शैले क्वचिदपि च कूलेषु सरिताम्।

कुटीरे दान्तानां मुनिजनवराणामपि वसन्
मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः।।3।।

क्वचिद्बालैः सार्धं करतलजतालैश्च हसितैः

क्वचिद्वै तारुण्यांकितचतुरनार्या सह रमन्।

क्वचिद्वृद्धैश्चिंतां क्वचिदपि तदन्यैश्च विलपन्
मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः।।4।।

कदाचिद्विद्वद्भिर्विविधसुपुरानंदरसिकैः

कदाचित्काव्यालंकृतरसरसालैः कविवरैः।

वदन्वादांस्तर्कैरनुमितिपरैस्तार्किकवरै
र्मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः।।5।।

कदा ध्यानाभ्यासैः क्वचिदपि सपर्यां विकसितैः

सुगंधैः सत्पुष्पैः क्वचिदपि दलैरेव विलमैः।

प्रकुर्वन्देवस्य प्रमुदितमनाः संस्तुतिपरो
मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः।।6।।

शिवायाः शंभोर्वा क्वचिदपि च विष्णोरपि कदा

गणाध्यक्षस्यापि प्रकटतपनस्यापि च कदा।

पठन्वै नामालिं नयनरचितानंदसलिलो
मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः।।7।।

कदा गंगांभोभिः क्वचिदपि च कूपोत्थितजलैः

क्वचित्कासारोत्थैः क्वचिदपि सदुष्णैश्च शिशिरैः।

भजन्स्नानैर्भूत्या क्वचिदपि च कर्पूरनिभया
मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः।।8।।


कदाचिज्जागृत्यां विषयकरणैः संव्यवहरन्

कदाचित्स्वप्नस्थानपि च विषयानेव च भजन्।

कदाचित्सौषुप्तं सुखमनुभवन्नेव सतत
मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः।।9।।

कदाप्याशावासाः क्वचिदपि च दिव्यांबरधरः

क्वचित्पंचास्योत्थां त्वचमपि दधानः कटितटे।

मनस्वी निःशंकः स्वजनहृदयानंदजनको
मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः।।10।।

कदाचित्सत्त्वस्थः क्वचिदपि रजोवृत्तियुगतः

स्तमोवृत्तिः क्वापि त्रितयरहितः क्वापि च पुनः।

कदाचित्संसारी श्रुतिपथविहारी क्वचिदहो
मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः।।11।।

कदाचिन्मौनस्थः क्वचिदपि च वाग्वादनिरतः

कदाचित्स्वानंदे हसति रभसा त्यक्तवचसा।

कदाचिल्लोकानां व्यवहृतिसमालोकनपरो
मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः।।12।।

कदाचिच्छक्तीनां विकचमुखपद्मेषु कवलान्

क्षिपंस्तासां क्वापि स्वयमपि च गृह्णन्स्वमुखतः।

तदद्वैतं रूपं निजपरविहीनं प्रकटयन्
मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः।।13।।

क्वचिच्छैवैः सार्धं क्वचिदपि च शाक्तैः सह रमन्

कदा विष्णोर्भक्तैः क्वचिदपि च सौरैः सह वसन्।

कदाचिद्गाणेशैर्गतसकलभेदोऽद्वयतया
मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः।।14।।

निराकारं क्वापि क्वचिदपि च साकालममलं

निजं शैव रूपं विविधगुणभेदेन बहुधा।

कदाश्चर्यं पश्यन्किमिदमिति हृष्यन्नपि कदा
मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः।।15।।

कदा द्वैतं पश्यन्नखिलमपि सत्यं शिवमयं

महावाक्यार्थानामवगतसमभ्यासवशतः।

गतद्वैताभावः शिवशिवशिवेत्येव विलपन्
मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः।।16।।

इमां मुक्तावस्थां परमशिवसंस्थागुरुकृपा

सुधापांगावाप्यां सहजसुखवाप्यामनुदिनम्।

मुहुर्मज्जन्मज्जन्भजति सुकृती चेन्नरवर
स्तदा योगी त्यागी कविरिति वदन्तीह कवयः।।17।।

मौने मौनी गुणिनि गुणवान्पंडिते पंडितश्च

दीने दीनः सुखिनि सुखवान्भोगिनि प्राप्तभोगः।

मूर्खे मूर्खो युवतिषु युवा वाग्मिनि प्रौढवाग्मी
धन्यः कोऽपि त्रिभुवनजयी योऽवधूतेऽवधूतः।।18।।


इति जीवन्मुक्तानंदलहरी संपूर्णा।।