Preliminary Texts

।।निर्वाणमंजरी।।

अहं नामरो नैव मर्त्यो न दैत्यो न गंधर्वयक्षः पिशाचप्रभेदः।
पुमान्नैव न स्त्री तथा नैव षंढः प्रकृष्टप्रकाशस्वरूपः शिवोऽहम्।।1.1।।

अहं नैव बालो युवा नैव वृद्धो न वर्णी न च ब्रह्मचारी गृहस्थः।
वनस्थोऽपि नाहं न संन्यस्तधर्मा जगज्जन्मनाशैकहेतुः शिवोऽहम्।।1.2।।

अहं नैव मन्ता न गन्ता न वक्ता न कर्ता न भोक्ता न मुक्ताश्रमस्थः।
यथाहं मनोवृत्तिभेदस्वरूपस्तथा सर्ववृत्तिप्रदीपः शिवोऽहम्।।1.3।।

यदंतर्बहिर्व्यापकं नित्यशुद्धं यदेकं सदा सच्चिदानंदकंदम्।
यतः स्थूलसूक्ष्मप्रपंचस्य भानं यतस्तत्प्रसूतिस्तदेवाहमस्मि।।1.4।।

यतः कालमृत्युर्बिभेति प्रकामं यतश्चित्तबुद्धींद्रियाणां विलासः।
हरिब्रह्मरुद्रेंद्रचंद्रादि नाम प्रकाशो यतः स्यात्तदेवाहमस्मि।।1.5।।

यदाकाशवत्सर्वगं शान्तरूपं परंज्योतिराकारशून्यं वरेण्यम्।
यदाद्यंतशून्यं परं शंकराख्यं यदंतर्विभाव्यं तदेवाहमस्मि।।1.6।।