Preliminary Texts

।।श्रीः।।
।।मायापञ्चकम्।।
निरुपमनित्यनिरंशकेऽप्यखण्डे

मयि चिति सर्वविकल्पनादिशून्ये।

घटयति जगदीशजीवभेदं
त्वघटितघटनापटीयसी माया।।1।।

श्रुतिशतनिगमान्तशोधकान

प्यहह धनादिनिदर्शनेन सद्यः।

कलुषयति चतुष्पदाद्यभिन्ना
नघटितघटनापटीयसी माया।।2।।

सुखचिदखण्डविबोधमद्वितीयं

वियदनलादिविनिर्मिते नियोज्य।

भ्रमयति भवसागरे नितान्तं
त्वघटितघटनापटीयसी माया।।3।।

अपगतगुणवर्णजातिभेदे

सुखचिति विप्रविडाद्यहंकृतिं च।

स्फुटयति सुतदारगेहमोहं
त्वघटितघटनापटीयसी माया।।4।।

विधिहरिहरविभेदमप्यखण्डे

बत विरचय्य बुधानपि प्रकामम्।

भ्रमयति हरिहरभेदभावा
नघटितघटनापटीयसी मया।।5।।


इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य

श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य

श्रीमच्छंकरभगवतः कृतौ

मायापञ्चकं संपूर्णम्।।